स्तोत्र · देवनागरी पाठ

गोविन्द दामोदर स्तोत्र

गोविन्द दामोदर स्तोत्र का देवनागरी पाठ। प्रचलित पाठांतर और स्रोत का उल्लेख साथ दिया गया है।

स्रोत: मूल संस्कृत रचना; संदर्भ संस्करण Sanskrit Documents; आधुनिक अनुवाद नहीं · संदर्भ पाठ

गोविन्द दामोदर स्तोत्र

श्रीगोविन्ददामोदरस्तोत्र अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा । कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ॥ १॥ श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे । त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ॥ २॥ विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ॥ ३॥ उलूखले सम्भृततण्डुलांश्च सङ्घट्टयन्त्यो मुसलैः प्रमुग्धाः । गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ॥ ४॥ काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुण्डम् । अध्यापयामास सरोरुहाक्षी गोविन्द दामोदर माधवेति ॥ ५॥ गृहे गृहे गोपवधूसमूहः प्रतिक्षणं पिञ्जरसारिकाणाम् । स्खलद्गिरां वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ॥ ६॥ पर्य्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः । जगुः प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति ॥ ७॥ रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आबालकं बालकमाजुहाव गोविन्द दामोदर माधवेति ॥ ८॥ विचित्रवर्णाभरणाभिरामेऽभिधेहि वक्त्राम्बुजराजहंसि । सदा मदीये रसनेऽग्ररङ्गे गोविन्द दामोदर माधवेति ॥ ९॥ अङ्काधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् । सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ॥ १०॥ क्रीडन्तमन्तर्व्रजमात्मजं स्वं समं वयस्यैः पशुपालबालैः । प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ॥ ११॥ यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबध्यमानः । रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति ॥ १२॥ निजाङ्गणे कङ्कणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति ॥ १३॥ गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाययोगे । पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ॥ १४॥ मन्दारमूले वदनाभिरामं बिम्बाधरे पूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ॥ १५॥ उत्थाय गोप्योऽपररात्रभागे स्मृत्वा यशोदासुतबालकेलिम् । गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ॥ १६॥ जग्धोऽथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती । उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ॥ १७॥ अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ । गायन्ति गोप्योऽथ सखीसमेता गोविन्द दामोदर माधवेति ॥ १८॥ क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् । आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति ॥ १९॥ क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा । आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति ॥ २०॥ सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनयः प्रपन्नाः । तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥ २१॥ विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्याः । वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति ॥ २२॥ वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नाम् । राधां जगुः साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ॥ २३॥ प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं तनयं यशोदा । प्राबोधयत् पाणितलेन मन्दं गोविन्द दामोदर माधवेति ॥ २४॥ प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः । मूले तरूणां मुनयः पठन्ति गोविन्द दामोदर माधवेति ॥ २५॥ एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ २६॥ गोपी कदाचिन्मणिपञ्जरस्थं शुकं वचो वाचयितुं प्रवृत्ता । आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति ॥ २७॥ गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् । उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति ॥ २८॥ प्रभातकाले वरवल्लवौघा गोरक्षणार्थं धृतवेत्रदण्डाः । आकारयामासुरनन्तमाद्यं गोविन्द दामोदर माधवेति ॥ २९॥ जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः । गोपाङ्गनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ॥ ३०॥ अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्टः । तदा स पौरैर्जयसीत्यभाषि गोविन्द दामोदर माधवेति ॥ ३१॥ कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू । (सूनौ) रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ॥ ३२॥ सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य । चक्रुर्लुठन्त्यः पथि गोपबाला गोविन्द दामोदर माधवेति ॥ ३३॥ अक्रूरयाने यदुवंशनाथं सङ्गच्छमानं मथुरां निरीक्ष्य । ऊचुर्वियोगत् किल गोपबाला गोविन्द दामोदर माधवेति ॥ ३४॥ चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना । प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ ३५॥ मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी । आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ॥ ३६॥ वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम् । तत्राप्यदृष्ट्वाऽतिभयादवोचद् गोविन्द दामोदर माधवेति ॥ ३७॥ सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्ति मर्त्याः । ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥ ३८॥ सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्दवियोगखिन्नाम् । सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ ३९॥ जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ॥ ४०॥ आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति । संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति ॥ ४१॥ ताताज्ञया गच्छति रामचन्द्रे सलक्ष्मणेऽरण्यचये ससीते । चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ॥ ४२॥ एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण । सीता तदाक्रन्ददनन्यनाथा गोविन्द दामोदर माधवेति ॥ ४३॥ रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् । रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ॥ ४४॥ प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुःखहेतो । रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति ॥ ४५॥ अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धुः । तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति ॥ ४६॥ हंसध्वजः शङ्खयुतो ददर्श पुत्रं कटाहे प्रतपन्तमेनम् । पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ॥ ४७॥ दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् । अन्तः प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति ॥ ४८॥ ध्येयः सदा योगिभिरप्रमेयः चिन्ताहरश्चिन्तितपारिजातः । कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति ॥ ४९॥ संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते । करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ॥ ५०॥ भजस्व मन्त्रं भवबन्धमुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम् । द्वैपायनाद्यैर्मुनिभिः प्रजप्तं गोविन्द दामोदर माधवेति ॥ ५१॥ त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते । वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति ॥ ५२॥ गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो । उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ॥ ५३॥ जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि । समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ॥ ५४॥ गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण । गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति ॥ ५५॥ सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् । देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ॥ ५६॥ दुर्वारवाक्यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथञ्चित् । सभां प्रविष्टा मनसा जुहाव गोविन्द दामोदर माधवेति ॥ ५७॥ श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ५८॥ श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ५९॥ गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६०॥ गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६१॥ प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६२॥ हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६३॥ श्रीयादवेन्द्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६४॥ धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६५॥ बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६६॥ श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६७॥ नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६८॥ लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६९॥ श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ७०॥ वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम् । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ७१॥ इति श्रीबिल्वमङ्गलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं सम्पूर्णम् ।
स्रोत और पाठ-संस्करण

https://sanskritdocuments.org/doc_vishhnu/govind.html; मूल संस्कृत पाठ, आधुनिक टिप्पणी/अनुवाद हटाए गए।