स्तोत्र · देवनागरी पाठ

पुरुष सूक्त

पुरुष सूक्त का देवनागरी पाठ। प्रचलित पाठांतर और स्रोत का उल्लेख साथ दिया गया है।

स्रोत: hindu-devotional-texts 0.7.0 — Ishank Gupta and contributors, MIT. Attribution and permission: /shravan/library-sources.txt · संदर्भ पाठ

पूर्वनारायणम्

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥ १॥ पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚। उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ २॥ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ ३॥ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ ४॥ तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ५॥ यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ ६॥ स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पु॑रुषं प॒शुम् ॥ ७॥ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥ ८॥ तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥ ९॥ तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ १०॥ तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥ ११॥ यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥ १२॥ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥ १३॥ च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ १४॥ नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ॥ १५॥ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ ॥ १६॥ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥ १७॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ १८॥
स्रोत और पाठ-संस्करण

https://app.unpkg.com/hindu-devotional-texts@0.7.0/files/dist/suktas/purusha-suktam.js; hindu-devotional-texts 0.7.0 — Ishank Gupta and contributors, MIT. Attribution and permission: /shravan/library-sources.txt

उत्तरनारायणम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥ १॥ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ॥ २॥ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ ३॥ यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ ४॥ रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ॥ ५॥ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ । इ॒ष्टम् म॑निषाण । अ॒मुं म॑निषाण । सर्व॑म् मनिषाण ॥ ६॥
स्रोत और पाठ-संस्करण

https://app.unpkg.com/hindu-devotional-texts@0.7.0/files/dist/suktas/purusha-suktam.js; hindu-devotional-texts 0.7.0 — Ishank Gupta and contributors, MIT. Attribution and permission: /shravan/library-sources.txt